Sukta 7.66
आ यातं मित्रावरुणा जुषाणावाहुतिं नरा । पातं सोममृतावृधा ॥
आ या॑तं मित्रावरुणा जुषा॒णावाहु॑तिं नरा । पा॒तं सोम॑मृतावृधा ॥
ā́ yā́taṃ mitrā́varuṇā juṣāṇā́vā́hutim narā | pā́taṃ sómam ṛtā́vṛdhā ||
Come, O Mitra and Varuṇa, rejoicing in the offering, O strong ones. Drink the Soma, you who increase the Ṛta.
आ । या॒त॒म् । मि॒त्रा॒व॒रु॒णा॒ । जु॒षा॒णौ । आऽहु॑तिम् । न॒रा॒ । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥आ । यातम् । मित्रावरुणा । जुषाणौ । आहुतिम् । नरा । पातम् । सोमम् । ऋतवृधा ॥ā | yātam | mitrāvaruṇā | juṣāṇau | āhutim | narā | pātam | somam | ṛta-vṛdhā