Sukta 7.66
तच्चक्षुर्देवहितं शुक्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतम् ॥
तच्चक्षु॑र्दे॒वहि॑तं शु॒क्रमु॒च्चर॑त् । पश्ये॑म श॒रद॑: श॒तं जीवे॑म श॒रद॑: श॒तम् ॥
tác cákṣur deváhitaṃ śukrám uccárat | páśyema śarádaḥ śatáṃ jī́vema śarádaḥ śatám ||
That eye, set by the gods, the bright one, rises upward. May we see for a hundred autumns; may we live for a hundred autumns.
तत् । चक्षुः॑ । दे॒वऽहि॑तम् । शु॒क्रम् । उ॒त्ऽचर॑त् । पश्ये॑म । श॒रदः॑ । श॒तम् । जीवे॑म । श॒रदः॑ । श॒तम् ॥तत् । चक्षुः । देवहितम् । शुक्रम् । उत्चरत् । पश्येम । शरदः । शतम् । जीवेम । शरदः । शतम् ॥tat | cakṣuḥ | deva-hitam | śukram | ut-carat | paśyema | śaradaḥ | śatam | jīvema | śaradaḥ | śatam