Sukta 7.66
शीर्ष्णःशीर्ष्णो जगतस्तस्थुषस्पतिं समया विश्वमा रजः । सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे ॥
शी॒र्ष्णःशी॑र्ष्णो॒ जग॑तस्त॒स्थुष॒स्पतिं॑ स॒मया॒ विश्व॒मा रज॑: । स॒प्त स्वसा॑रः सुवि॒ताय॒ सूर्यं॒ वह॑न्ति ह॒रितो॒ रथे॑ ॥
śīrṣṇaḥ-śīrṣṇo jagatás tasthúṣas pátiṃ samayā víśvam ā rájaḥ | saptá svasā́raḥ suvitā́ya sū́ryaṃ váhanti haríto ráthe ||
From summit to summit they uphold the Lord of all that moves and all that stands; in a single accord they traverse the whole luminous expanse. The seven sister-powers bear the Sun for a fair and happy going, the green steeds yoked to the chariot.
शी॒र्ष्णःऽशी॑र्ष्णः । जग॑तः । त॒स्थुषः॑ । पति॑म् । स॒मया॑ । विश्व॑म् । आ । रजः॑ । स॒प्त । स्वसा॑रः । सु॒वि॒ताय॑ । सूर्य॑म् । वह॑न्ति । ह॒रितः॑ । रथे॑ ॥शीर्ष्णःशीर्ष्णः । जगतः । तस्थुषः । पतिम् । समया । विश्वम् । आ । रजः । सप्त । स्वसारः । सुविताय । सूर्यम् । वहन्ति । हरितः । रथे ॥śīrṣṇaḥ-śīrṣṇaḥ | jagataḥ | tasthuṣaḥ | patim | samayā | viśvam | ā | rajaḥ | sapta | svasāraḥ | suvitāya | sūryam | vahanti | haritaḥ | rathe