Sukta 7.66
उदु त्यद्दर्शतं वपुर्दिव एति प्रतिह्वरे । यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरम् ॥
उदु॒ त्यद्द॑र्श॒तं वपु॑र्दि॒व ए॑ति प्रतिह्व॒रे । यदी॑मा॒शुर्वह॑ति दे॒व एत॑शो॒ विश्व॑स्मै॒ चक्ष॑से॒ अर॑म् ॥
úd u tyád darśatáṃ vápur divá éti pratihvaré | yad ī́m āśúr váhati devá étaśo víśvasmai cákṣase áram ||
Up rises that form, beautiful to behold; it goes in answer to the call from heaven—when the swift divine Etaśa bears it, made ready for the seeing of all.
उत् । ऊँ॒ इति॑ । त्यत् । द॒र्श॒तम् । वपुः॑ । दि॒वः । ए॒ति॒ । प्र॒ति॒ऽह्व॒रे । यत् । ई॒म् । आ॒शुः । वह॑ति । दे॒वः । एत॑शः । विश्व॑स्मै । चक्ष॑से । अर॑म् ॥उत् । ऊँ इति । त्यत् । दर्शतम् । वपुः । दिवः । एति । प्रतिह्वरे । यत् । ईम् । आशुः । वहति । देवः । एतशः । विश्वस्मै । चक्षसे । अरम् ॥ut | oṃ iti | tyat | darśatam | vapuḥ | divaḥ | eti | prati-hvare | yat | īm | āśuḥ | vahati | devaḥ | etaśaḥ | viśvasmai | cakṣase | aram