Sukta 7.66
ऋतावान ऋतजाता ऋतावृधो घोरासो अनृतद्विषः । तेषां वः सुम्ने सुच्छर्दिष्टमे नरः स्याम ये च सूरयः ॥
ऋ॒तावा॑न ऋ॒तजा॑ता ऋता॒वृधो॑ घो॒रासो॑ अनृत॒द्विष॑: । तेषां॑ वः सु॒म्ने सु॑च्छ॒र्दिष्ट॑मे नर॒: स्याम॒ ये च॑ सू॒रय॑: ॥
ṛtā́vān ṛtájātā ṛtā́vṛdho ghorā́so anṛtádviṣaḥ | téṣāṃ vaḥ sumné succhárdiṣṭame naráḥ syāma yé ca sū́rayaḥ ||
Possessed of Truth, born of Truth, increasing by Truth, fierce against the untrue—within their happiest grace and most sheltering protection may we be, O strong ones, we and the illumined leaders.
ऋ॒तऽवा॑नः । ऋ॒तऽजा॑ताः । ऋ॒त॒ऽवृधः॑ । घो॒रासः॑ । अ॒नृ॒त॒ऽद्विषः॑ । तेषा॑म् । वः॒ । सु॒म्ने । सु॒च्छ॒र्दिःऽत॑मे । न॒रः॒ । स्याम॑ । ये । च॒ । सू॒रयः॑ ॥ऋतवानः । ऋतजाताः । ऋतवृधः । घोरासः । अनृतद्विषः । तेषाम् । वः । सुम्ने । सुच्छर्दिःतमे । नरः । स्याम । ये । च । सूरयः ॥ṛta-vānaḥ | ṛta-jātāḥ | ṛta-vṛdhaḥ | ghorāsaḥ | anṛta-dviṣaḥ | teṣām | vaḥ | sumne | succhardiḥ-tame | naraḥ | syāma | ye | ca | sūrayaḥ