Sukta 7.66
वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चादृचम् । अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत ॥
वि ये द॒धुः श॒रदं॒ मास॒मादह॑र्य॒ज्ञम॒क्तुं चादृच॑म् । अ॒ना॒प्यं वरु॑णो मि॒त्रो अ॑र्य॒मा क्ष॒त्रं राजा॑न आशत ॥
ví yé dadhúḥ śarádaṃ mā́sām ād áhar yajñám aktúṃ cā́d ṛ́cam | anā́pyaṃ váruṇo mitró aryamā́ kṣatráṃ rājāna ā́śata ||
They who have set in order the year and the months, the day, the sacrifice, the night, and the mantra; Varuṇa, Mitra, Aryaman—the Kings—have attained an unassailable sovereignty.
वि । ये । द॒धुः । श॒रद॑म् । मास॑म् । आत् । अहः॑ । य॒ज्ञम् । अ॒क्तुम् । च॒ । आत् । ऋच॑म् । अ॒ना॒प्यम् । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । क्ष॒त्रम् । राजा॑नः । आ॒श॒त॒ ॥वि । ये । दधुः । शरदम् । मासम् । आत् । अहः । यज्ञम् । अक्तुम् । च । आत् । ऋचम् । अनाप्यम् । वरुणः । मित्रः । अर्यमा । क्षत्रम् । राजानः । आशत ॥vi | ye | dadhuḥ | śaradam | māsam | āt | ahaḥ | yajñam | aktum | ca | āt | ṛcam | anāpyam | varuṇaḥ | mitraḥ | aryamā | kṣatram | rājānaḥ | āśata