Sukta 7.66
बहवः सूरचक्षसोऽग्निजिह्वा ऋतावृधः । त्रीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः ॥
ब॒हव॒: सूर॑चक्षसोऽग्निजि॒ह्वा ऋ॑ता॒वृध॑: । त्रीणि॒ ये ये॒मुर्वि॒दथा॑नि धी॒तिभि॒र्विश्वा॑नि॒ परि॑भूतिभिः ॥
bahávaḥ sū́racakṣaso ’gnijihvā́ ṛtā́vṛdhaḥ | trī́ṇi yé yémur vidháthāni dhītíbhir víśvāni paribhūtíbhiḥ ||
Many are they who see by the sun, whose tongue is the flame, who increase by the Right; they have ordered the three assemblies of the sacrifice, encompassing all by their masteries of becoming.
ब॒हवः॑ । सूर॑ऽचक्षसः । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॑ऋ॒त॒ऽवृधः॑ । त्रीणि॑ । ये । ये॒मुः । वि॒दथा॑नि । धी॒तिऽभिः । विश्वा॑नि । परि॑भूतिऽभिः ॥बहवः । सूरचक्षसः । अग्निजिह्वाः । ऋऋतवृधः । त्रीणि । ये । येमुः । विदथानि । धीतिभिः । विश्वानि । परिभूतिभिः ॥bahavaḥ | sūra-cakṣasaḥ | agni-jihvāḥ | ṛta-vṛdhaḥ | trīṇi | ye | yemuḥ | vi dathāni | dhīti-bhiḥ | viśvāni | paribhūti-bhiḥ