Sukta 7.65
आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिमुक्षतमिळाभिः । प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारोः ॥
आ नो॑ मित्रावरुणा ह॒व्यजु॑ष्टिं घृ॒तैर्गव्यू॑तिमुक्षत॒मिळा॑भिः । प्रति॑ वा॒मत्र॒ वर॒मा जना॑य पृणी॒तमु॒द्नो दि॒व्यस्य॒ चारो॑: ॥
ā́ no mitrāvaruṇā havyájuṣṭiṃ ghṛtáir gavyū́tim ukṣatam íḷābhiḥ | práti vā́m atra váram ā́ jánāya pṛṇītám udnó divyásya cā́roḥ ||
Come to us, O Mitra and Varuṇa, accepting the offering; with the clarified richness and with the streams of inspiration, pour out the wide pasture. Here, in response, fill for the people the choicest boon—from the sweet, heavenly wellspring.
आ । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । ह॒व्यऽजु॑ष्टिम् । घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् । इळा॑भिः । प्रति॑ । वा॒म् । अत्र॑ । वर॑म् । आ । जना॑य । पृ॒णी॒तम् । उ॒द्नः । दि॒व्यस्य॑ । चारोः॑ ॥आ । नः । मित्रावरुणा । हव्यजुष्टिम् । घृतैः । गव्यूतिम् । उक्षतम् । इळाभिः । प्रति । वाम् । अत्र । वरम् । आ । जनाय । पृणीतम् । उद्नः । दिव्यस्य । चारोः ॥ā | naḥ | mitrāvaruṇā | havya-juṣṭim | ghṛtaiḥ | gavyūtim | ukṣatam | iḷābhiḥ | prati | vām | atra | varam | ā | janāya | pṛṇītam | udnaḥ | divyasya | cāroḥ