Sukta 7.65
ता भूरिपाशावनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय । ऋतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम ॥
ता भूरि॑पाशा॒वनृ॑तस्य॒ सेतू॑ दुर॒त्येतू॑ रि॒पवे॒ मर्त्या॑य । ऋ॒तस्य॑ मित्रावरुणा प॒था वा॑म॒पो न ना॒वा दु॑रि॒ता त॑रेम ॥
tā́ bhū́ripāśā́vanṛ́tasya sétū duratyetū́ ripáve mártyāya | ṛtásya mitrāvaruṇā pathā́ vām apó ná nā́vā duritā́ taréma ||
You two, rich in binding powers, are a bridge against falsehood—hard to pass for the hostile mortal. By your path of ṛta, O Mitra and Varuṇa, may we cross over our difficulties as across waters by a boat.
ता । भूरि॑ऽपाशौ । अनृ॑तस्य । सेतू॒ इति॑ । दु॒र॒त्येतू॒ इति॑ दुः॒ऽअ॒त्येतू॑ । रि॒पवे॑ । मर्त्या॑य । ऋ॒तस्य॑ । मि॒त्रा॒व॒रु॒णा॒ । प॒था । वा॒म् । अ॒पः । न । ना॒वा । दुः॒ऽइ॒ता । त॒रे॒म॒ ॥ता । भूरिपाशौ । अनृतस्य । सेतू इति । दुरत्येतू इति दुःअत्येतू । रिपवे । मर्त्याय । ऋतस्य । मित्रावरुणा । पथा । वाम् । अपः । न । नावा । दुःइता । तरेम ॥tā | bhūri-pāśau | anṛtasya | setūiti | duratyetūitiduḥ-atyetū | ripave | martyāya | ṛtasya | mitrāvaruṇā | pathā | vām | apaḥ | na | nāvā | duḥ-itā | tarema