Sukta 7.65
एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि । अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः ॥
ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोम॑: शु॒क्रो न वा॒यवे॑ऽयामि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
eṣá stómó varuṇa mitra túbhyaṃ sómaḥ śukró ná vāyáve ’yāmi | aviṣṭáṃ dhíyo jigṛtáṃ puráṃdhīr yūyáṃ pāta svastíbhíḥ sádā naḥ ||
This hymn of affirmation I offer to you, O Varuṇa and Mitra—like a bright Soma brought for Vāyu I bear it forward. Take up our thoughts toward the desired fulfilment, O powers of plenitude; protect us always with well-being.
ए॒षः । स्तोमः॑ । व॒रु॒ण॒ । मि॒त्र॒ । तुभ्य॑म् । सोमः॑ । शु॒क्रः । न । वा॒यवे॑ । अ॒या॒मि॒ । अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एषः । स्तोमः । वरुण । मित्र । तुभ्यम् । सोमः । शुक्रः । न । वायवे । अयामि । अविष्टम् । धियः । जिगृतम् । पुरम्धीः । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥eṣaḥ | stomaḥ | varuṇa | mitra | tubhyam | somaḥ | śukraḥ | na | vāyave | ayāmi | aviṣṭam | dhiyaḥ | jigṛtam | puram-dhīḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ