Sukta 7.65
ता हि देवानामसुरा तावर्या ता नः क्षितीः करतमूर्जयन्तीः । अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्नहा च ॥
ता हि दे॒वाना॒मसु॑रा॒ ताव॒र्या ता न॑: क्षि॒तीः क॑रतमू॒र्जय॑न्तीः । अ॒श्याम॑ मित्रावरुणा व॒यं वां॒ द्यावा॑ च॒ यत्र॑ पी॒पय॒न्नहा॑ च ॥
tā́ hí devā́nām ásurā tá̄v aryā́ tā́ naḥ kṣitī́ḥ karatam ūrjáyantīḥ | aśyā́ma mitrāvaruṇā vayáṃ vāṃ dyā́vā ca yátra pī́payan áhā ca ||
For you two are the sovereign powers among the gods, you two are the noble ones; make for us the abodes that grow in energy. May we attain you, O Mitra and Varuṇa, there where Heaven and the Days nurture and increase.
ता । हि । दे॒वाना॑म् । असु॑रा । तौ । अ॒र्या । ता । नः॒ । क्षि॒तीः । क॒र॒त॒म् । ऊ॒र्जय॑न्तीः । अ॒श्याम॑ । मि॒त्रा॒व॒रु॒णा॒ । व॒यम् । वा॒म् । द्यावा॑ । च॒ । यत्र॑ । पी॒पय॑न् । अहा॑ । च॒ ॥ता । हि । देवानाम् । असुरा । तौ । अर्या । ता । नः । क्षितीः । करतम् । ऊर्जयन्तीः । अश्याम । मित्रावरुणा । वयम् । वाम् । द्यावा । च । यत्र । पीपयन् । अहा । च ॥tā | hi | devānām | asurā | tau | aryā | tā | naḥ | kṣitīḥ | karatam | ūrjayantīḥ | aśyāma | mitrāvaruṇā | vayam | vām | dyāvā | ca | yatra | pīpayan | ahā | ca