Sukta 7.65
प्रति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम् । ययोरसुर्यमक्षितं ज्येष्ठं विश्वस्य यामन्नाचिता जिगत्नु ॥
प्रति॑ वां॒ सूर॒ उदि॑ते सू॒क्तैर्मि॒त्रं हु॑वे॒ वरु॑णं पू॒तद॑क्षम् । ययो॑रसु॒र्य१॒॑मक्षि॑तं॒ ज्येष्ठं॒ विश्व॑स्य॒ याम॑न्ना॒चिता॑ जिग॒त्नु ॥
práti vāṃ sū́ra údite sū́ktair mitráṃ huve váruṇaṃ pūtádakṣam | yáyor asuryàm ákṣitaṃ jyéṣṭhaṃ víśvasya yā́mann ācítā jigatnú ||
At the sun’s uprising, with well-fashioned utterances I call you—Mitra and Varuṇa of purified will. You whose sovereign power, unperishing and eldest, moves through every course of the world, wide in awareness, arriving to us.
प्रति॑ । वा॒म् । सूरे॑ । उत्ऽइ॑ते । सु॒ऽउ॒क्तैः । मि॒त्रम् । हु॒वे॒ । वरु॑णम् । पू॒तऽद॑क्षम् । ययोः॑ । अ॒सु॒र्य॑म् । अक्षि॑तम् । ज्येष्ठ॑म् । विश्व॑स्य । याम॑न् । आ॒ऽचिता॑ । जि॒ग॒त्नु ॥प्रति । वाम् । सूरे । उत्इते । सुउक्तैः । मित्रम् । हुवे । वरुणम् । पूतदक्षम् । ययोः । असुर्यम् । अक्षितम् । ज्येष्ठम् । विश्वस्य । यामन् । आचिता । जिगत्नु ॥prati | vām | sūre | ut-ite | su-uktaiḥ | mitram | huve | varuṇam | pūta-dakṣam | yayoḥ | asuryam | akṣitam | jyeṣṭham | viśvasya | yāman | ācitā | jigatnu