Sukta 7.64
मित्रस्तन्नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर्नयन्तु । ब्रवद्यथा न आदरिः सुदास इषा मदेम सह देवगोपाः ॥
मि॒त्रस्तन्नो॒ वरु॑णो दे॒वो अ॒र्यः प्र साधि॑ष्ठेभिः प॒थिभि॑र्नयन्तु । ब्रव॒द्यथा॑ न॒ आद॒रिः सु॒दास॑ इ॒षा म॑देम स॒ह दे॒वगो॑पाः ॥
mitrástán no váruṇo devó aryáḥ prá sādhiṣṭhébhiḥ pathíbhiḥ nayantu | brávad yáthā na ā́d ariḥ sudā́sa iṣā́ madema sahá devágopāḥ ||
May Mitra and Varuṇa, the divine Arya-powers, lead us forward by the most accomplishing paths. Let it be spoken so that no enemy may reach us; may we rejoice in the force of nourishment and increase, guarded by the gods.
मि॒त्रः । तत् । नः॒ । वरु॑णः । दे॒वः । अ॒र्यः । प्र । साधि॑ष्ठेभिः । प॒थिऽभिः॑ । न॒य॒न्तु॒ । ब्रव॑त् । यथा॑ । नः॒ । आत् । अ॒रिः । सु॒ऽदासे॑ । इ॒षा । म॒दे॒म॒ । स॒ह । दे॒वऽगो॑पाः ॥मित्रः । तत् । नः । वरुणः । देवः । अर्यः । प्र । साधिष्ठेभिः । पथिभिः । नयन्तु । ब्रवत् । यथा । नः । आत् । अरिः । सुदासे । इषा । मदेम । सह । देवगोपाः ॥mitraḥ | tat | naḥ | varuṇaḥ | devaḥ | aryaḥ | pra | sādhiṣṭhebhiḥ | pathi-bhiḥ | nayantu | bravat | yathā | naḥ | āt | ariḥ | su-dāse | iṣā | madema | saha | deva-gopāḥ