Sukta 7.64
आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक् । इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू ॥
आ रा॑जाना मह ऋतस्य गोपा॒ सिन्धु॑पती क्षत्रिया यातम॒र्वाक् । इळां॑ नो मित्रावरुणो॒त वृ॒ष्टिमव॑ दि॒व इ॑न्वतं जीरदानू ॥
ā́ rājānā maha ṛtásya gopā síndhupatī kṣatriyā yātam arvā́k | iḷā́ṃ no mitrāvaruṇota vṛ́ṣṭim áva divá invataṃ jīradānū ||
Come, O two kings, great guardians of ṛta, lords of the flowing powers, sovereign in rule—come near to us. Grant us the nourishing inspiration (iḷā) and also the rain of heaven, O Mitra and Varuṇa, you who give enduring gifts: let the higher waters descend into our life.
आ । रा॒जा॒ना॒ । म॒हः॒ । ऋ॒त॒स्य॒ । गो॒पा॒ । सिन्धु॑पती॒ इति॒ सिन्धु॑ऽपती । क्ष॒त्रि॒या॒ । या॒त॒म् । अ॒र्वाक् । इळा॑म् । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । उ॒त । वृ॒ष्टिम् । अव॑ । दि॒वः । इ॒न्व॒त॒म् । जी॒रद॒ा॒नू॒ इति॑ जीरऽदानू ॥आ । राजाना । महः । ऋतस्य । गोपा । सिन्धुपती इति सिन्धुपती । क्षत्रिया । यातम् । अर्वाक् । इळाम् । नः । मित्रावरुणा । उत । वृष्टिम् । अव । दिवः । इन्वतम् । जीरदानू इति जीरदानू ॥ā | rājānā | mahaḥ | ṛtasya | gopā | sindhupatī itisindhu-patī | kṣatriyā | yātam | arvāk | iḷām | naḥ | mitrāvaruṇā | uta | vṛṣṭim | ava | divaḥ | invatam | jīradānū iti jīra-dānū