Sukta 7.64
यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कृणवद्धारयच्च । उक्षेथां मित्रावरुणा घृतेन ता राजाना सुक्षितीस्तर्पयेथाम् ॥
यो वां॒ गर्तं॒ मन॑सा॒ तक्ष॑दे॒तमू॒र्ध्वां धी॒तिं कृ॒णव॑द्धा॒रय॑च्च । उ॒क्षेथां॑ मित्रावरुणा घृ॒तेन॒ ता रा॑जाना सुक्षि॒तीस्त॑र्पयेथाम् ॥
yó vāṃ gártaṃ mánasā tákṣad etám ūrdhvā́ṃ dhī́tiṃ kṛṇávad dhā́rayac ca | ukṣéthāṃ mitrāvaruṇā ghṛténa tā́ rājānā sukṣitī́s tarpayethām ||
Whoever has fashioned for you this seat by the mind, and has made the thought rise upward and held it firm—may you, O Mitra and Varuṇa, sprinkle him with the clarified light; you two kings, satisfy and foster the good habitations (the stable states of the being).
यः । वा॒म् । गर्त॑म् । मन॑सा । तक्ष॑त् । ए॒तम् । ऊ॒र्ध्वाम् । धी॒तिम् । कृ॒णव॑त् । धा॒रय॑त् । च॒ । उ॒क्षेथा॑म् । मि॒त्रा॒व॒रु॒णा॒ । घृ॒तेन॑ । ता । रा॒जा॒ना॒ । सु॒ऽक्षि॒तीः । त॒र्प॒ये॒था॒म् ॥यः । वाम् । गर्तम् । मनसा । तक्षत् । एतम् । ऊर्ध्वाम् । धीतिम् । कृणवत् । धारयत् । च । उक्षेथाम् । मित्रावरुणा । घृतेन । ता । राजाना । सुक्षितीः । तर्पयेथाम् ॥yaḥ | vām | gartam | manasā | takṣat | etam | ūrdhvām | dhītim | kṛṇavat | dhārayat | ca | ukṣethām | mitrāvaruṇā | ghṛtena | tā | rājānā | su-kṣitīḥ | tarpayethām