Sukta 7.64
दिवि क्षयन्ता रजसः पृथिव्यां प्र वां घृतस्य निर्णिजो ददीरन् । हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ॥
दि॒वि क्षय॑न्ता॒ रज॑सः पृथि॒व्यां प्र वां॑ घृ॒तस्य॑ नि॒र्णिजो॑ ददीरन् । ह॒व्यं नो॑ मि॒त्रो अ॑र्य॒मा सुजा॑तो॒ राजा॑ सुक्ष॒त्रो वरु॑णो जुषन्त ॥
diví kṣáyantā rájasaḥ pṛthivyā́ṃ prá vāṃ ghṛtásya nirṇíjo dadīran | havyáṃ no mitró aryamā́ sujā́to rājā́ sukṣatró váruṇo juṣanta ||
Dwelling in heaven and on earth, moving through the mid-worlds, you have torn open the shining robes of the clarified light. May Mitra and Aryaman, well-born, and Varuṇa the king of noble dominion, take delight in our offering: let the sovereign powers accept and establish the right order in us.
दि॒वि । क्षय॑न्ता । रज॑सः । पृ॒थि॒व्याम् । प्र । वा॒म् । घृ॒तस्य॑ । निः॒ऽनिजः॑ । द॒दी॒र॒न् । ह॒व्यम् । नः॒ । मि॒त्रः । अ॒र्य॒मा । सुऽजा॑तः । राजा॑ । सु॒ऽक्ष॒त्रः । वरु॑णः । जु॒ष॒न्त॒ ॥दिवि । क्षयन्ता । रजसः । पृथिव्याम् । प्र । वाम् । घृतस्य । निःनिजः । ददीरन् । हव्यम् । नः । मित्रः । अर्यमा । सुजातः । राजा । सुक्षत्रः । वरुणः । जुषन्त ॥divi | kṣayantā | rajasaḥ | pṛthivyām | pra | vām | ghṛtasya | niḥ-nijaḥ | dadīran | havyam | naḥ | mitraḥ | aryamā | su-jātaḥ | rājā | su-kṣatraḥ | varuṇaḥ | juṣanta