Sukta 7.62
प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥
प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ । आ नो॒ जने॑ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ॥
prá bā́havā sisṛtaṃ jīváse na ā́ no gavyū́tim ukṣataṃ ghṛténa | ā́ no jáne śravayataṃ yuvānā śrutáṃ me mitrāvaruṇā havé mā ||
Stretch out your arms forward for our living; pour upon us the path of luminous herds with the clarified richness. Make our name heard among men, O you youthful powers; hear this call of mine, O Mitra and Varuṇa, in the act of invocation.
प्र । बा॒हवा॑ । सि॒सृ॒त॒म् । जी॒वसे॑ । नः॒ । आ । नः॒ । गव्यू॑तिम् । उ॒क्ष॒त॒म् । घृ॒तेन॑ । आ । नः॒ । जने॑ । श्र॒व॒य॒त॒म् । यु॒वा॒ना॒ । श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णा॒ । हवा॑ । इ॒मा ॥प्र । बाहवा । सिसृतम् । जीवसे । नः । आ । नः । गव्यूतिम् । उक्षतम् । घृतेन । आ । नः । जने । श्रवयतम् । युवाना । श्रुतम् । मे । मित्रावरुणा । हवा । इमा ॥pra | bāhavā | sisṛtam | jīvase | naḥ | ā | naḥ | gavyūtim | ukṣatam | ghṛtena | ā | naḥ | jane | śravayatam | yuvānā | śrutam | me | mitrāvaruṇā | havā | imā