Sukta 7.62
द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे । मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य प्रियतमस्य नृणाम् ॥
द्यावा॑भूमी अदिते॒ त्रासी॑थां नो॒ ये वां॑ ज॒ज्ञुः सु॒जनि॑मान ऋष्वे । मा हेळे॑ भूम॒ वरु॑णस्य वा॒योर्मा मि॒त्रस्य॑ प्रि॒यत॑मस्य नृ॒णाम् ॥
dyā́vābhūmī adite trā́sīthāṃ no yé vāṃ jajñúḥ sujánimāna ṛṣvé | mā́ héḷe bhūma váruṇasya vāyór mā́ mitrásya priyátamasya nṛṇā́m ||
O Heaven and Earth, O Aditi, protect us—us who have come to birth in your noble becoming. May we not fall into the wrath of Varuṇa, nor into the displeasure of Vāyu; nor into the hurt of Mitra, most dear to men.
द्यावा॑भूमी॒ इति॑ । अ॒दि॒ते॒ । त्रासी॑थाम् । नः॒ । ये । वा॒म् । ज॒ज्ञुः । सु॒ऽजनि॑मानः । ऋ॒ष्वे॒ इति॑ । मा । हेळे॑ । भू॒म॒ । वरु॑णस्य । वा॒योः । मा । मि॒त्रस्य॑ । प्रि॒यऽत॑मस्य । नृ॒णाम् ॥द्यावाभूमी इति । अदिते । त्रासीथाम् । नः । ये । वाम् । जज्ञुः । सुजनिमानः । ऋष्वे इति । मा । हेळे । भूम । वरुणस्य । वायोः । मा । मित्रस्य । प्रियतमस्य । नृणाम् ॥dyāvābhūmī iti | adite | trāsīthām | naḥ | ye | vām | jajñuḥ | su-janimānaḥ | ṛṣveiti | mā | heḷe | bhūma | varuṇasya | vāyoḥ | mā | mitrasya | priya-tamasya | nṛṇām