Sukta 7.62
वि नः सहस्रं शुरुधो रदन्त्वृतावानो वरुणो मित्रो अग्निः । यच्छन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तु स्तवानाः ॥
वि न॑: स॒हस्रं॑ शु॒रुधो॑ रदन्त्वृ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः । यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कमा न॒: कामं॑ पूपुरन्तु॒ स्तवा॑नाः ॥
ví naḥ sahásraṃ śurúdho radantv ṛtā́vāno váruṇo mitró agníḥ | yácchantu candrā́ upamám no arkám ā́ naḥ kā́maṃ pūpurantu stavānā́ḥ ||
Let the thousand barriers be broken open for us—by Varuṇa, Mitra, and Agni who are possessors of ṛta. Let the shining powers grant to us a supreme hymn of light; and praised by us, may they fill our desire—our true will of fulfillment.
वि । नः॒ । स॒हस्र॑म् । शु॒रुधः॑ । र॒द॒न्तु॒ । ऋ॒तऽवा॑नः । वरु॑णः । मि॒त्रः । अ॒ग्निः । यच्छ॑न्तु । च॒न्द्राः । उ॒प॒ऽमम् । नः॒ । अ॒र्कम् । आ । नः॒ । काम॑म् । पू॒पु॒र॒न्तु॒ । स्तवा॑नाः ॥वि । नः । सहस्रम् । शुरुधः । रदन्तु । ऋतवानः । वरुणः । मित्रः । अग्निः । यच्छन्तु । चन्द्राः । उपमम् । नः । अर्कम् । आ । नः । कामम् । पूपुरन्तु । स्तवानाः ॥vi | naḥ | sahasram | śurudhaḥ | radantu | ṛta-vānaḥ | varuṇaḥ | mitraḥ | agniḥ | yacchantu | candrāḥ | upa-mam | naḥ | arkam | ā | naḥ | kāmam | pūpurantu | stavānāḥ