Sukta 7.62
स सूर्य प्रति पुरो न उद्गा एभिः स्तोमेभिरेतशेभिरेवैः । प्र नो मित्राय वरुणाय वोचोऽनागसो अर्यम्णे अग्नये च ॥
स सू॑र्य॒ प्रति॑ पु॒रो न॒ उद्गा॑ ए॒भिः स्तोमे॑भिरेत॒शेभि॒रेवै॑: । प्र नो॑ मि॒त्राय॒ वरु॑णाय वो॒चोऽना॑गसो अर्य॒म्णे अ॒ग्नये॑ च ॥
sá sū́rya práti puró na udgā́ ebhíḥ stómebhir etaśébhir évaiḥ | prá no mitrā́ya váruṇāya voco'nā́gaso aryámṇe agnáye ca ||
O Sun, sing out before us, in front, with these swift-moving hymns and impulsions. And let our word go forth to Mitra, to Varuṇa, to Aryaman, and to Agni—so that we may be without fault and walk in the right order.
सः । सू॒र्य॒ । प्रति॑ । पु॒रः । नः॒ । उत् । गाः॒ । ए॒भिः । स्तोमे॑भिः । ए॒त॒शेभिः॑ । एवैः॑ । प्र । नः॒ । मि॒त्राय॑ । वरु॑णाय । वो॒चः॒ । अना॑गसः । अ॒र्य॒म्णे । अ॒ग्नये॑ । च॒ ॥सः । सूर्य । प्रति । पुरः । नः । उत् । गाः । एभिः । स्तोमेभिः । एतशेभिः । एवैः । प्र । नः । मित्राय । वरुणाय । वोचः । अनागसः । अर्यम्णे । अग्नये । च ॥saḥ | sūrya | prati | puraḥ | naḥ | ut | gāḥ | ebhiḥ | stomebhiḥ | etaśebhiḥ | evaiḥ | pra | naḥ | mitrāya | varuṇāya | vocaḥ | anāgasaḥ | aryamṇe | agnaye | ca