Sukta 7.62
उत्सूर्यो बृहदर्चींष्यश्रेत्पुरु विश्वा जनिम मानुषाणाम् । समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर्भूत् ॥
उत्सूर्यो॑ बृ॒हद॒र्चींष्य॑श्रेत्पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणाम् । स॒मो दि॒वा द॑दृशे॒ रोच॑मान॒: क्रत्वा॑ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥
út sū́ryo bṛhád arcī́ṃṣy aśret purú víśvā jánima mā́nuṣāṇām | samó divā́ dadṛśe rócamānaḥ kratvā́ kṛtáḥ sukṛ́taḥ kartṛ́-bhir bhūt ||
Up rises the Sun, spreading his vast rays; he looks upon the many births and all the becoming of men. Equal in the day, he is seen shining; formed by the working will, he becomes a perfect making through the doers.
उत् । सू॒र्यः॑ । बृ॒हत् । अ॒र्चींषि॑ । अ॒श्रे॒त् । पु॒रु । विश्वा॑ । जनि॑म । मानु॑षाणाम् । स॒मः । दि॒वा । द॒दृ॒शे॒ । रोच॑मानः । क्रत्वा॑ । कृ॒तः । सुऽकृ॑तः । क॒र्तृऽभिः॑ । भू॒त् ॥उत् । सूर्यः । बृहत् । अर्चींषि । अश्रेत् । पुरु । विश्वा । जनिम । मानुषाणाम् । समः । दिवा । ददृशे । रोचमानः । क्रत्वा । कृतः । सुकृतः । कर्तृभिः । भूत् ॥ut | sūryaḥ | bṛhat | arcīṃṣi | aśret | puru | viśvā | janima | mānuṣāṇām | samaḥ | divā | dadṛśe | rocamānaḥ | kratvā | kṛtaḥ | su-kṛtaḥ | kartṛ-bhiḥ | bhūt