Sukta 7.60
अव वेदिं होत्राभिर्यजेत रिपः काश्चिद्वरुणध्रुतः सः । परि द्वेषोभिरर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम् ॥
अव॒ वेदिं॒ होत्रा॑भिर्यजेत॒ रिप॒: काश्चि॑द्वरुण॒ध्रुत॒: सः । परि॒ द्वेषो॑भिरर्य॒मा वृ॑णक्तू॒रुं सु॒दासे॑ वृषणा उ लो॒कम् ॥
áva védiṃ hótrābhir yajeta rípaḥ kā́ś cid varuṇa-dhrútaḥ sáḥ | pári dvéṣobhir aryamā́ vṛṇaktū́ruṃ sudā́se vṛṣaṇā u lokám ||
Let him perform the sacrifice with the priestly powers at the altar; Varuṇa, who holds by his law, will cast down whatever hostile breaker there is. May Aryaman, encompassing the hatreds, choose for Sudās the wide world-space, O mighty ones.
अव॑ । वेदि॑म् । होत्रा॑भिः । य॒जे॒त॒ । रिपः॑ । काः । चि॒त् । व॒रु॒ण॒ऽध्रितः॑ । सः । परि॑ । द्वेषः॑ऽभिः । अ॒र्य॒मा । वृ॒ण॒क्तु॒ । उ॒रुम् । सु॒ऽदासे॑ । वृ॒ष॒णौ॒ । ऊँ॒ इति॑ । लो॒कम् ॥अव । वेदिम् । होत्राभिः । यजेत । रिपः । काः । चित् । वरुणध्रितः । सः । परि । द्वेषःभिः । अर्यमा । वृणक्तु । उरुम् । सुदासे । वृषणौ । ऊँ इति । लोकम् ॥ava | vedim | hotrābhiḥ | yajeta | ripaḥ | kāḥ | cit | varuṇa-dhritaḥ | saḥ | pari | dveṣaḥ-bhiḥ | aryamā | vṛṇaktu | urum | su-dāse | vṛṣaṇau | oṃ iti | lokam