Sukta 7.60
यद्गोपावददितिः शर्म भद्रं मित्रो यच्छन्ति वरुणः सुदासे । तस्मिन्ना तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः ॥
यद्गो॒पाव॒ददि॑ति॒: शर्म॑ भ॒द्रं मि॒त्रो यच्छ॑न्ति॒ वरु॑णः सु॒दासे॑ । तस्मि॒न्ना तो॒कं तन॑यं॒ दधा॑ना॒ मा क॑र्म देव॒हेळ॑नं तुरासः ॥
yád gopā́vad áditiḥ śárma bhadráṃ mitró yáchanti váruṇaḥ sudā́se | tásmin nā́ tókaṃ tánayaṃ dádhānā mā́ karma deva-heḷánaṃ turāsaḥ ||
When Aditi, with the guarding power, and Mitra with Varuṇa grant the happy shelter to Sudās, then, holding fast within that grace our child and our lineage of becoming, let us not do the act that offends the gods, O swift ones.
यत् । गो॒पाव॑त् । अदि॑तिः । शर्म॑ । भ॒द्रम् । मि॒त्रः । यच्छ॑न्ति । वरु॑णः । सु॒ऽदासे॑ । तस्मि॑न् । आ । तो॒कम् । तन॑यम् । दधा॑नाः । मा । क॒र्म॒ । दे॒व॒ऽहेळ॑नम् । तु॒रा॒सः॒ ॥यत् । गोपावत् । अदितिः । शर्म । भद्रम् । मित्रः । यच्छन्ति । वरुणः । सुदासे । तस्मिन् । आ । तोकम् । तनयम् । दधानाः । मा । कर्म । देवहेळनम् । तुरासः ॥yat | gopāvat | aditiḥ | śarma | bhadram | mitraḥ | yacchanti | varuṇaḥ | su-dāse | tasmin | ā | tokam | tanayam | dadhānāḥ | mā | karma | deva-heḷanam | turāsaḥ