Sukta 7.60
सस्वश्चिद्धि समृतिस्त्वेष्येषामपीच्येन सहसा सहन्ते । युष्मद्भिया वृषणो रेजमाना दक्षस्य चिन्महिना मृळता नः ॥
स॒स्वश्चि॒द्धि समृ॑तिस्त्वे॒ष्ये॑षामपी॒च्ये॑न॒ सह॑सा॒ सह॑न्ते । यु॒ष्मद्भि॒या वृ॑षणो॒ रेज॑माना॒ दक्ष॑स्य चिन्महि॒ना मृ॒ळता॑ नः ॥
sasváś cid hí samṛ́tis tveṣy èṣām apī́cyena sáhasā sáhante | yuṣmád-bhiyā́ vṛṣaṇo réjamānā dákṣasya cin mahinā́ mṛḷátā naḥ ||
Even what is self-moving and disorderly is driven into right joining by their vehement, hidden strength; the mighty ones, trembling under your awe, by the greatness of discernment—have mercy on us.
स॒स्वरिति॑ । चि॒त् । हि । सम्ऽऋ॑तिः । त्वे॒षी । ए॒षा॒म् । अ॒पी॒च्ये॑न । सह॑सा । सह॑न्ते । यु॒ष्मत् । भि॒या । वृ॒ष॒णः॒ । रेज॑मानाः । दक्ष॑स्य । चि॒त् । म॒हि॒ना । मृ॒ळत॑ । नः॒ ॥सस्वरिति । चित् । हि । सम्ऋतिः । त्वेषी । एषाम् । अपीच्येन । सहसा । सहन्ते । युष्मत् । भिया । वृषणः । रेजमानाः । दक्षस्य । चित् । महिना । मृळत । नः ॥sasvariti | cit | hi | sam-ṛtiḥ | tveṣī | eṣām | apīcyena | sahasā | sahante | yuṣmat | bhiyā | vṛṣaṇaḥ | rejamānāḥ | dakṣasya | cit | mahinā | mṛḷata | naḥ