Sukta 7.60
इमे दिवो अनिमिषा पृथिव्याश्चिकित्वांसो अचेतसं नयन्ति । प्रव्राजे चिन्नद्यो गाधमस्ति पारं नो अस्य विष्पितस्य पर्षन् ॥
इ॒मे दि॒वो अनि॑मिषा पृथि॒व्याश्चि॑कि॒त्वांसो॑ अचे॒तसं॑ नयन्ति । प्र॒व्रा॒जे चि॑न्न॒द्यो॑ गा॒धम॑स्ति पा॒रं नो॑ अ॒स्य वि॑ष्पि॒तस्य॑ पर्षन् ॥
imé divó ánimiṣā pṛthivyā́ś cikitvā́ṃso acetásaṃ nayanti | pravrā́je cin nádyo gā́dham asti pā́raṃ no asyá viṣpitásya parṣan ||
These sleepless watchers of Heaven and Earth, the wise knowers, lead even the unperceiving mind; even where the currents are for the wanderer, there is a ford—may they carry us to the farther shore of this perilous expanse.
इ॒मे । दि॒वः । अनि॑ऽमिषा । पृ॒थि॒व्याः । चि॒कि॒त्वांसः॑ । अ॒चे॒तस॑म् । न॒य॒न्ति॒ । प्र॒ऽव्रा॒जे । चि॒त् । न॒द्यः॑ । गा॒धम् । अ॒सि॒ । पा॒रम् । नः॒ । अ॒स्य । वि॒ष्पि॒तस्य॑ । प॒र्ष॒न् ॥इमे । दिवः । अनिमिषा । पृथिव्याः । चिकित्वांसः । अचेतसम् । नयन्ति । प्रव्राजे । चित् । नद्यः । गाधम् । असि । पारम् । नः । अस्य । विष्पितस्य । पर्षन् ॥ime | divaḥ | ani-miṣā | pṛthivyāḥ | cikitvāṃsaḥ | acetasam | nayanti | pra-vrāje | cit | nadyaḥ | gādham | asi | pāram | naḥ | asya | viṣpitasya | parṣan