Sukta 7.60
इमे मित्रो वरुणो दूळभासोऽचेतसं चिच्चितयन्ति दक्षैः । अपि क्रतुं सुचेतसं वतन्तस्तिरश्चिदंहः सुपथा नयन्ति ॥
इ॒मे मि॒त्रो वरु॑णो दू॒ळभा॑सोऽचे॒तसं॑ चिच्चितयन्ति॒ दक्षै॑: । अपि॒ क्रतुं॑ सु॒चेत॑सं॒ वत॑न्तस्ति॒रश्चि॒दंह॑: सु॒पथा॑ नयन्ति ॥
imé mitró váruṇo dūḷábhāso ’cetásaṃ cic citayanti dákṣaiḥ | ápi krátum sucétasaṃ vátantas tiráś cid áṃhaḥ supáthā nayanti ||
These Mitra and Varuṇa, hard to assail, awaken even the unperceiving being by their powers of right-discrimination; shaping in us a will that is luminous in consciousness, they lead us by the good path beyond even the crookedness of sin and inner distress.
इ॒मे । मि॒त्रः । वरु॑णः । दुः॒ऽदभा॑सः । अ॒चे॒तस॑म् । चि॒त् । चि॒त॒य॒न्ति॒ । दक्षैः॑ । अपि॑ । क्रतु॑म् । सु॒चेत॑सम् । वत॑न्तः । ति॒रः । चि॒त् । अंहः॑ । सु॒ऽपथा॑ । न॒य॒न्ति॒ ॥इमे । मित्रः । वरुणः । दुःदभासः । अचेतसम् । चित् । चितयन्ति । दक्षैः । अपि । क्रतुम् । सुचेतसम् । वतन्तः । तिरः । चित् । अंहः । सुपथा । नयन्ति ॥ime | mitraḥ | varuṇaḥ | duḥ-dabhāsaḥ | acetasam | cit | citayanti | dakṣaiḥ | api | kratum | sucetasam | vatantaḥ | tiraḥ | cit | aṃhaḥ | su-pathā | nayanti