Sukta 7.60
इमे चेतारो अनृतस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति । इम ऋतस्य वावृधुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः ॥
इ॒मे चे॒तारो॒ अनृ॑तस्य॒ भूरे॑र्मि॒त्रो अ॑र्य॒मा वरु॑णो॒ हि सन्ति॑ । इ॒म ऋ॒तस्य॑ वावृधुर्दुरो॒णे श॒ग्मास॑: पु॒त्रा अदि॑ते॒रद॑ब्धाः ॥
imé cetā́ro anṛ́tasya bhū́rer mitró aryamā́ váruṇo hí sánti | imá ṛtásya vāvṛdhur duróṇe śágmāsaḥ putrā́ áditer adábdhāḥ ||
These—Mitra, Aryaman, Varuṇa—are the discerners of the vast falsehood. These, in the home of being, have increased the Truth; mighty sons of Aditi, they are unbetrayable.
इ॒मे । चे॒तारः॑ । अनृ॑तस्य । भूरेः॑ । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । हि । सन्ति॑ । इ॒मे । ऋ॒तस्य॑ । व॒वृ॒धुः॒ । दु॒रो॒णे । श॒ग्मासः॑ । पु॒त्राः । अदि॑तेः । अद॑ब्धाः ॥इमे । चेतारः । अनृतस्य । भूरेः । मित्रः । अर्यमा । वरुणः । हि । सन्ति । इमे । ऋतस्य । ववृधुः । दुरोणे । शग्मासः । पुत्राः । अदितेः । अदब्धाः ॥ime | cetāraḥ | anṛtasya | bhūreḥ | mitraḥ | aryamā | varuṇaḥ | hi | santi | ime | ṛtasya | vavṛdhuḥ | duroṇe | śagmāsaḥ | putrāḥ | aditeḥ | adabdhāḥ