Sukta 7.60
उद्वां पृक्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः । यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥
उद्वां॑ पृ॒क्षासो॒ मधु॑मन्तो अस्थु॒रा सूर्यो॑ अरुहच्छु॒क्रमर्ण॑: । यस्मा॑ आदि॒त्या अध्व॑नो॒ रद॑न्ति मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषा॑: ॥
úd vāṃ pṛkṣā́so mádhumanto asthur ā́ sū́ryo aruhac chukrám árṇaḥ | yásmā ādityā́ ádhvano rádanti mitró aryamā́ váruṇaḥ sajóṣāḥ ||
Up for you the honeyed draughts have been set; the Sun has mounted the bright flood. For him the Ādityas—Mitra, Aryaman, Varuṇa—in one accord, prepare the path of the journey.
उत् । वा॒म् । पृ॒क्षासः॑ । मधु॑ऽमन्तः । अ॒स्थुः॒ । आ । सूर्यः॑ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः॑ । यस्मै॑ । आ॒दि॒त्याः । अध्व॑नः । रद॑न्ति । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । स॒ऽजोषाः॑ ॥उत् । वाम् । पृक्षासः । मधुमन्तः । अस्थुः । आ । सूर्यः । अरुहत् । शुक्रम् । अर्णः । यस्मै । आदित्याः । अध्वनः । रदन्ति । मित्रः । अर्यमा । वरुणः । सजोषाः ॥ut | vām | pṛkṣāsaḥ | madhu-mantaḥ | asthuḥ | ā | sūryaḥ | aruhat | śukram | arṇaḥ | yasmai | ādityāḥ | adhvanaḥ | radanti | mitraḥ | aryamā | varuṇaḥ | sa-joṣāḥ