Sukta 7.60
अयुक्त सप्त हरितः सधस्थाद्या ईं वहन्ति सूर्यं घृताचीः । धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ॥
अयु॑क्त स॒प्त ह॒रित॑: स॒धस्था॒द्या ईं॒ वह॑न्ति॒ सूर्यं॑ घृ॒ताची॑: । धामा॑नि मित्रावरुणा यु॒वाकु॒: सं यो यू॒थेव॒ जनि॑मानि॒ चष्टे॑ ॥
áyukta saptá háritaḥ sadhásthād yā́ īṃ váhanti sū́ryaṃ ghṛtā́cīḥ | dhā́māni mitrāvaruṇā yuvā́kuḥ sáṃ yó yū́theva jánimāni cáṣṭe ||
He has yoked from the common seat the seven shining steeds that bear the Sun, streaming with clarified light. O Mitra and Varuṇa, the youthful one orders the domains, and like a leader of a herd he surveys the births and becomings.
अयु॑क्त । स॒प्त । ह॒रितः॑ । स॒धऽस्था॑त् । याः । ई॒म् । वह॑न्ति । सूर्य॑म् । घृ॒ताचीः॑ । धामा॑नि । मि॒त्रा॒व॒रु॒णा॒ । यु॒वाकुः॑ । सम् । यः । यू॒थाऽइ॑व । जनि॑मानि । चष्टे॑ ॥अयुक्त । सप्त । हरितः । सधस्थात् । याः । ईम् । वहन्ति । सूर्यम् । घृताचीः । धामानि । मित्रावरुणा । युवाकुः । सम् । यः । यूथाइव । जनिमानि । चष्टे ॥ayukta | sapta | haritaḥ | sadha-sthāt | yāḥ | īm | vahanti | sūryam | ghṛtācīḥ | dhāmāni | mitrāvaruṇā | yuvākuḥ | sam | yaḥ | yūthāiva | janimāni | caṣṭe