Sukta 7.60
एष स्य मित्रावरुणा नृचक्षा उभे उदेति सूर्यो अभि ज्मन् । विश्वस्य स्थातुर्जगतश्च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ॥
ए॒ष स्य मि॑त्रावरुणा नृ॒चक्षा॑ उ॒भे उदे॑ति॒ सूर्यो॑ अ॒भि ज्मन् । विश्व॑स्य स्था॒तुर्जग॑तश्च गो॒पा ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥
eṣá syá mitrāvaruṇā nṛcákṣā ubhé úd eti sū́ryo abhí jmán | víśvasya sthātúr jágataś ca gopā́ ṛjú márteṣu vṛjinā́ ca páśyan ||
This Sun, O Mitra and Varuṇa, the human-seeing eye, rises over both realms; guardian of all that stands and moves, he beholds among mortals the straight and also the crooked.
ए॒षः । स्यः । मि॒त्रा॒व॒रु॒णा॒ । नृ॒ऽचक्षाः॑ । उ॒भे इति॑ । उत् । ए॒ति॒ । सूर्यः॑ । अ॒भि । ज्मन् । विश्व॑स्य । स्था॒तुः । जग॑तः । च॒ । गो॒पाः । ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् ॥एषः । स्यः । मित्रावरुणा । नृचक्षाः । उभे इति । उत् । एति । सूर्यः । अभि । ज्मन् । विश्वस्य । स्थातुः । जगतः । च । गोपाः । ऋजु । मर्तेषु । वृजिना । च । पश्यन् ॥eṣaḥ | syaḥ | mitrāvaruṇā | nṛ-cakṣāḥ | ubhe iti | ut | eti | sūryaḥ | abhi | jman | viśvasya | sthātuḥ | jagataḥ | ca | gopāḥ | ṛju | marteṣu | vṛjinā | ca | paśyan