Sukta 7.60
यदद्य सूर्य ब्रवोऽनागा उद्यन्मित्राय वरुणाय सत्यम् । वयं देवत्रादिते स्याम तव प्रियासो अर्यमन्गृणन्तः ॥
यद॒द्य सू॑र्य॒ ब्रवोऽना॑गा उ॒द्यन्मि॒त्राय॒ वरु॑णाय स॒त्यम् । व॒यं दे॑व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो॑ अर्यमन्गृ॒णन्त॑: ॥
yád adyá sūrya brávo ’nāgā udyán mitrā́ya váruṇāya satyám | vayáṃ devatrā́dite syāma táva priyā́so aryaman gṛṇántaḥ ||
O Sun, as you rise today proclaiming the truth to Mitra and Varuṇa—may we, moving in the divine direction, O Aditi, become dear to you, O Aryaman, by our utterance of praise.
यत् । अ॒द्य । सू॒र्य॒ । ब्रवः॑ । अना॑गाः । उ॒त्ऽयन् । मि॒त्राय॑ । वरु॑णाय । स॒त्यम् । व॒यम् । दे॒व॒ऽत्रा । अ॒दि॒ते॒ । स्या॒म॒ । तव॑ । प्रि॒यासः॑ । अ॒र्य॒म॒न् । गृ॒णन्तः॑ ॥यत् । अद्य । सूर्य । ब्रवः । अनागाः । उत्यन् । मित्राय । वरुणाय । सत्यम् । वयम् । देवत्रा । अदिते । स्याम । तव । प्रियासः । अर्यमन् । गृणन्तः ॥yat | adya | sūrya | bravaḥ | anāgāḥ | ut-yan | mitrāya | varuṇāya | satyam | vayam | deva-trā | adite | syāma | tava | priyāsaḥ | aryaman | gṛṇantaḥ