Sukta 7.60
यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः । सीक्षन्त मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥
यो ब्रह्म॑णे सुम॒तिमा॒यजा॑ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः । सीक्ष॑न्त म॒न्युं म॒घवा॑नो अ॒र्य उ॒रु क्षया॑य चक्रिरे सु॒धातु॑ ॥
yó bráhmaṇe sumatím ā́yajāte vā́jasya sātáu paramásya rā́yaḥ | sī́kṣanta manyúṃ maghávāno aryá urú kṣayā́ya cakrire sudhā́tu ||
He who offers for the brahman (the soul’s formative word) a good thought, wins in the conquest the plenitude of force and the highest felicity. The noble givers sharpen their ardour; they have made a wide dwelling for settled increase—well-founded.
यः । ब्रह्म॑णे । सु॒ऽम॒तिम् । आ॒ऽयजा॑ते । वाज॑स्य । सा॒तौ । प॒र॒मस्य॑ । रा॒यः । सीक्ष॑न्त । म॒न्युम् । म॒घऽवा॑नः । अ॒र्यः । उ॒रु । क्षया॑य । च॒क्रि॒रे॒ । सु॒ऽधातु॑ ॥यः । ब्रह्मणे । सुमतिम् । आयजाते । वाजस्य । सातौ । परमस्य । रायः । सीक्षन्त । मन्युम् । मघवानः । अर्यः । उरु । क्षयाय । चक्रिरे । सुधातु ॥yaḥ | brahmaṇe | su-matim | āyajāte | vājasya | sātau | paramasya | rāyaḥ | sīkṣanta | manyum | magha-vānaḥ | aryaḥ | uru | kṣayāya | cakrire | su-dhātu