Sukta 7.60
इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि । विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥
इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि । विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
iyáṃ deva puróhitis yuvábhyāṃ yajñéṣu mitrāvaruṇāv akāri | víśvāni durgā́ pipṛtaṃ tiró no yūyáṃ pāta svastíbhiḥ sádā naḥ ||
This guiding presence set in front has been made for you two, Mitra and Varuṇa, in the sacrifices. Carry us beyond all difficult passages; you protect us always with your states of well-being.
इ॒यम् । दे॒व॒ । पु॒रःऽहि॑तिः । यु॒वऽभ्या॑म् । य॒ज्ञेषु॑ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒का॒रि॒ । विश्वा॑नि । दुः॒ऽगा । पि॒पृ॒त॒म् । ति॒रः । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥इयम् । देव । पुरःहितिः । युवभ्याम् । यज्ञेषु । मित्रावरुणौ । अकारि । विश्वानि । दुःगा । पिपृतम् । तिरः । नः । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥iyam | deva | puraḥ-hitiḥ | yuva-bhyām | yajñeṣu | mitrāvaruṇau | akāri | viśvāni | duḥ-gā | pipṛtam | tiraḥ | naḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ