Sukta 7.6
यो अपाचीने तमसि मदन्तीः प्राचीश्चकार नृतमः शचीभिः । तमीशानं वस्वो अग्निं गृणीषेऽनानतं दमयन्तं पृतन्यून् ॥
यो अ॑पा॒चीने॒ तम॑सि॒ मद॑न्ती॒: प्राची॑श्च॒कार॒ नृत॑म॒: शची॑भिः । तमीशा॑नं॒ वस्वो॑ अ॒ग्निं गृ॑णी॒षेऽना॑नतं द॒मय॑न्तं पृत॒न्यून् ॥
yó apācī́ne támasi mádantīḥ prācī́ś cakā́ra nṛ́tamaḥ śácībhiḥ | tám īśā́naṁ vásvo agníṁ gṛṇīṣé'nā́nataṁ damáyantaṁ pṛtanyū́n ||
He who, by his powers, turns those that revel in the westward darkness toward the east—he, the most manly in his workings. That sovereign Agni, lord of plenitude, I affirm: unconquered, taming the fighters within us.
यः । अ॒पा॒चीने॑ । तम॑सि । मद॑न्तीः । प्राचीः॑ । च॒कार॑ । नृऽत॑मः । शची॑भिः । तम् । ईशा॑नम् । वस्वः॑ । अ॒ग्निम् । गृ॒णी॒षे॒ । अना॑नतम् । द॒मय॑न्तम् । पृ॒त॒न्यून् ॥यः । अपाचीने । तमसि । मदन्तीः । प्राचीः । चकार । नृतमः । शचीभिः । तम् । ईशानम् । वस्वः । अग्निम् । गृणीषे । अनानतम् । दमयन्तम् । पृतन्यून् ॥yaḥ | apācīne | tamasi | madantīḥ | prācīḥ | cakāra | nṛ-tamaḥ | śacībhiḥ | tam | īśānam | vasvaḥ | agnim | gṛṇīṣe | anānatam | damayantam | pṛtanyūn