Sukta 7.6
न्यक्रतून्ग्रथिनो मृध्रवाचः पणीँरश्रद्धाँ अवृधाँ अयज्ञान् । प्रप्र तान्दस्यूँरग्निर्विवाय पूर्वश्चकारापराँ अयज्यून् ॥
न्य॑क्र॒तून्ग्र॒थिनो॑ मृ॒ध्रवा॑चः प॒णीँर॑श्र॒द्धाँ अ॑वृ॒धाँ अ॑य॒ज्ञान् । प्रप्र॒ तान्दस्यूँ॑र॒ग्निर्वि॑वाय॒ पूर्व॑श्चका॒राप॑राँ॒ अय॑ज्यून् ॥
ny àkratūn grathíno mṛdhrávācaḥ paṇī́m̐r aśraddhā́m̐ avṛdhā́m̐ ayajñā́n | prá-prá tā́n dasyū́n agnír vivāya pū́rvaś cakārā́parāṁ áyajyūn ||
Agni drives down and away the will-less, the knot-bound, the crooked-speakers—those Paṇis without faith, without growth, without sacrifice. Forward, ever forward, he chases those Dasyus; he makes the former powers first, and casts the later, the non-offerers, behind.
नि । अ॒क्र॒तून् । ग्र॒थिनः॑ । मृ॒ध्रऽवा॑चः । प॒णीन् । अ॒श्र॒द्धान् । अ॒वृ॒धान् । अ॒य॒ज्ञान् । प्रऽप्र॑ । तान् । दस्यू॑न् । अ॒ग्निः । वि॒वा॒य॒ । पूर्वः॑ । च॒का॒र॒ । अप॑रान् । अय॑ज्यून् ॥नि । अक्रतून् । ग्रथिनः । मृध्रवाचः । पणीन् । अश्रद्धान् । अवृधान् । अयज्ञान् । प्रप्र । तान् । दस्यून् । अग्निः । विवाय । पूर्वः । चकार । अपरान् । अयज्यून् ॥ni | akratūn | grathinaḥ | mṛdhra-vācaḥ | paṇīn | aśraddhān | avṛdhān | ayajñān | pra-pra | tān | dasyūn | agniḥ | vivāya | pūrvaḥ | cakāra | aparān | ayajyūn