Sukta 7.6
कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः । पुरंदरस्य गीर्भिरा विवासेऽग्नेर्व्रतानि पूर्व्या महानि ॥
क॒विं के॒तुं धा॒सिं भा॒नुमद्रे॑र्हि॒न्वन्ति॒ शं रा॒ज्यं रोद॑स्योः । पु॒रं॒द॒रस्य॑ गी॒र्भिरा वि॑वासे॒ऽग्नेर्व्र॒तानि॑ पू॒र्व्या म॒हानि॑ ॥
kavím ketúṃ dhā́sīm bhā́num ádreḥ hinvánti śáṃ rā́jyaṃ ródasyoḥ | purandaráṣya gī́rbhir ā́ vivāse ’gnér vratā́ni pū́rvyā mahā́ni ||
They impel the seer, the sign, the support, the radiant flame—born from the stone—toward the blissful sovereignty of the two worlds. With my hymns I serve the Fort-splitter; I awaken Agni’s ancient and mighty laws—so the inner kingdom may stand in right order.
क॒विम् । के॒तुम् । धा॒सिम् । भा॒नुम् । अद्रेः॑ । हि॒न्वन्ति॑ । शम् । रा॒ज्यम् । रोद॑स्योः । पु॒र॒म्ऽद॒रस्य॑ । गीः॒ऽभिः । आ । वि॒वा॒से॒ । अ॒ग्नेः । व्र॒तानि॑ । पू॒र्व्या । म॒हानि॑ ॥कविम् । केतुम् । धासिम् । भानुम् । अद्रेः । हिन्वन्ति । शम् । राज्यम् । रोदस्योः । पुरम्दरस्य । गीःभिः । आ । विवासे । अग्नेः । व्रतानि । पूर्व्या । महानि ॥kavim | ketum | dhāsim | bhānum | adreḥ | hinvanti | śam | rājyam | rodasyoḥ | puram-darasya | gīḥ-bhiḥ | ā | vivāse | agneḥ | vratāni | pūrvyā | mahāni