Sukta 7.6
प्र सम्राजो असुरस्य प्रशस्तिं पुंसः कृष्टीनामनुमाद्यस्य । इन्द्रस्येव प्र तवसस्कृतानि वन्दे दारुं वन्दमानो विवक्मि ॥
प्र स॒म्राजो॒ असु॑रस्य॒ प्रश॑स्तिं पुं॒सः कृ॑ष्टी॒नाम॑नु॒माद्य॑स्य । इन्द्र॑स्येव॒ प्र त॒वस॑स्कृ॒तानि॒ वन्दे॑ दा॒रुं वन्द॑मानो विवक्मि ॥
prá samrā́jo ásurasya práśastiṃ puṃsáḥ kṛṣṭīnā́m anumā́dyasya | índrasyeva prá tavásas kṛtā́ni vánde dā́ruṃ vándamāno vivakmi ||
I bring forward the praise of the sovereign Lord-power, the inspiring delight of the peoples. Like Indra’s mighty deeds, I proclaim the works of the Strong One; I bow to the sacred wood, and in adoration I utter—awakening the Fire in the substance of life.
प्र । स॒म्ऽराजः॑ । असु॑रस्य । प्रऽश॑स्तिम् । पुं॒सः । कृ॒ष्टी॒नाम् । अ॒नु॒ऽमाद्य॑स्य । इन्द्र॑स्यऽइव । प्र । त॒वसः॑ । कृ॒तानि॑ । वन्दे॑ । दा॒रुम् । वन्द॑मानः । वि॒व॒क्मि॒ ॥प्र । सम्राजः । असुरस्य । प्रशस्तिम् । पुंसः । कृष्टीनाम् । अनुमाद्यस्य । इन्द्रस्यइव । प्र । तवसः । कृतानि । वन्दे । दारुम् । वन्दमानः । विवक्मि ॥pra | sam-rājaḥ | asurasya | pra-śastim | puṃsaḥ | kṛṣṭīnām | anu-mādyasya | indrasya-iva | pra | tavasaḥ | kṛtāni | vande | dārum | vandamānaḥ | vivakmi