Sukta 7.59
सांतपना इदं हविर्मरुतस्तज्जुजुष्टन । युष्माकोती रिशादसः ॥
सांत॑पना इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन । यु॒ष्माको॒ती रि॑शादसः ॥
sā́ntapanā idáṃ havír marutas tát jujuṣṭana | yuṣmā́kōtī́ riśādasaḥ ||
O Maruts, burners-away (of impurity), accept and take delight in this offering; may your protection be ours, O destroyers of the injurer.
सान्ऽत॑पनाः । इ॒दम् । ह॒विः । मरु॑तः । तत् । जु॒जु॒ष्ट॒न॒ । यु॒ष्माक॑ । ऊ॒ती । रि॒शा॒द॒सः॒ ॥सान्तपनाः । इदम् । हविः । मरुतः । तत् । जुजुष्टन । युष्माक । ऊती । रिशादसः ॥sān-tapanāḥ | idam | haviḥ | marutaḥ | tat | jujuṣṭana | yuṣmāka | ūtī | riśādasaḥ