Sukta 7.59
सस्वश्चिद्धि तन्वः शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन् । विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः ॥
स॒स्वश्चि॒द्धि त॒न्व१॒॑: शुम्भ॑माना॒ आ हं॒सासो॒ नील॑पृष्ठा अपप्तन् । विश्वं॒ शर्धो॑ अ॒भितो॑ मा॒ नि षे॑द॒ नरो॒ न र॒ण्वाः सव॑ने॒ मद॑न्तः ॥
sasváś cid dhí tanváḥ śúmbhamānā ā́ haṃsā́so nī́la-pṛṣṭhā apaptan | víśvaṃ śárdho abhíto mā́ ní ṣeda náro ná raṇvā́ḥ sávane mádantaḥ ||
Even of themselves their bodies, adorning, have flown here—like swans with dark-blue backs. Let the whole host settle around me; like heroic men, rejoicing, intoxicated with delight at the pressing.
स॒स्वरिति॑ । चि॒त् । हि । त॒न्वः॑ । शुम्भ॑मानाः । आ । हं॒सासः॑ । नील॑ऽपृष्ठाः । अ॒प॒प्त॒न् । विश्व॑म् । शर्धः॑ । अ॒भितः॑ । मा॒ । नि । से॒द॒ । नरः॑ । न । र॒ण्वाः । सव॑ने । मद॑न्तः ॥सस्वरिति । चित् । हि । तन्वः । शुम्भमानाः । आ । हंसासः । नीलपृष्ठाः । अपप्तन् । विश्वम् । शर्धः । अभितः । मा । नि । सेद । नरः । न । रण्वाः । सवने । मदन्तः ॥sasvariti | cit | hi | tanvaḥ | śumbhamānāḥ | ā | haṃsāsaḥ | nīla-pṛṣṭhāḥ | apaptan | viśvam | śardhaḥ | abhitaḥ | mā | ni | seda | naraḥ | na | raṇvāḥ | savane | madantaḥ