Sukta 7.59
आ च नो बर्हिः सदताविता च नः स्पार्हाणि दातवे वसु । अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै ॥
आ च॑ नो ब॒र्हिः सद॑तावि॒ता च॑ नः स्पा॒र्हाणि॒ दात॑वे॒ वसु॑ । अस्रे॑धन्तो मरुतः सो॒म्ये मधौ॒ स्वाहे॒ह मा॑दयाध्वै ॥
ā́ ca no bárhiḥ sadata avitā́ ca naḥ spārhā́ṇi dā́tave vásu | ásredhanto marutaḥ somyé mádhau svā́héhá mādayādhvai ||
Come and sit upon our sacred seat, and be our helpers; give us the desirable riches. O Maruts, unfailing ones, in the Soma’s honey—svāhā—here, take delight and increase your ecstasy within us.
आ । चः॒ । नः॒ । ब॒र्हिः । सद॑त । अ॒वि॒त । च॒ । नः॒ । स्पा॒र्हाणि॑ । दात॑वे । वसु॑ । अस्रे॑धन्तः । म॒रु॒तः॒ । सो॒म्ये । मधौ॑ । स्वाहा॑ । इ॒ह । मा॒द॒या॒ध्वै॒ ॥आ । चः । नः । बर्हिः । सदत । अवित । च । नः । स्पार्हाणि । दातवे । वसु । अस्रेधन्तः । मरुतः । सोम्ये । मधौ । स्वाहा । इह । मादयाध्वै ॥ā | caḥ | naḥ | barhiḥ | sadata | avita | ca | naḥ | spārhāṇi | dātave | vasu | asredhantaḥ | marutaḥ | somye | madhau | svāhā | iha | mādayādhvai