Sukta 7.59
इहेह वः स्वतवसः कवयः सूर्यत्वचः । यज्ञं मरुत आ वृणे ॥
इ॒हेह॑ वः स्वतवस॒: कव॑य॒: सूर्य॑त्वचः । य॒ज्ञं म॑रुत॒ आ वृ॑णे ॥
ihéhá vaḥ svatavasaḥ kávayaḥ sū́ryatvacaḥ | yajñáṃ maruta ā́ vṛṇe ||
Here, here I choose you for the sacrifice, O Maruts—self-strong, seer-powers with the Sun as your luminous skin.
इ॒हऽइ॑ह । वः॒ । स्व॒ऽत॒व॒सः॒ । कव॑यः । सूर्य॑ऽत्वचः । य॒ज्ञम् । म॒रु॒तः॒ । आ । वृ॒णे॒ ॥इहइह । वः । स्वतवसः । कवयः । सूर्यत्वचः । यज्ञम् । मरुतः । आ । वृणे ॥iha-iha | vaḥ | sva-tavasaḥ | kavayaḥ | sūrya-tvacaḥ | yajñam | marutaḥ | ā | vṛṇe