Sukta 7.58
ताँ आ रुद्रस्य मीळ्हुषो विवासे कुविन्नंसन्ते मरुतः पुनर्नः । यत्सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम् ॥
ताँ आ रु॒द्रस्य॑ मी॒ळ्हुषो॑ विवासे कु॒विन्नंस॑न्ते म॒रुत॒: पुन॑र्नः । यत्स॒स्वर्ता॑ जिहीळि॒रे यदा॒विरव॒ तदेन॑ ईमहे तु॒राणा॑म् ॥
tā́ṃ ā́ rudrásya mīḷhúṣo vivāse kuvín naṃsante marútaḥ púnar naḥ | yát sasvártā jihīḷiré yadāvír áva tád éna īmahe turā́ṇām ||
Those Maruts, the bountiful of Rudra, I seek to draw near with my service—will they not bend again toward us? When their self-sounding energies blaze forth, when they become manifest, then we pray that the swift ones may carry down and away that fault within us.
तान् । आ । रु॒द्रस्य॑ । मी॒ळ्हुषः॑ । वि॒वा॒से॒ । कु॒वित् । नंस॑न्ते । म॒रुतः॑ । पुनः॑ । नः॒ । यत् । स॒स्वर्ता॑ । जि॒ही॒ळि॒रे । यत् । आ॒विः । अव॑ । तत् । एनः॑ । ई॒म॒हे॒ । तु॒राणा॑म् ॥तान् । आ । रुद्रस्य । मीळ्हुषः । विवासे । कुवित् । नंसन्ते । मरुतः । पुनः । नः । यत् । सस्वर्ता । जिहीळिरे । यत् । आविः । अव । तत् । एनः । ईमहे । तुराणाम् ॥tān | ā | rudrasya | mīḷhuṣaḥ | vivāse | kuvit | naṃsante | marutaḥ | punaḥ | naḥ | yat | sasvartā | jihīḷire | yat | āviḥ | ava | tat | enaḥ | īmahe | turāṇām