Sukta 7.58
युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री । युष्मोतः सम्राळुत हन्ति वृत्रं प्र तद्वो अस्तु धूतयो देष्णम् ॥
यु॒ष्मोतो॒ विप्रो॑ मरुतः शत॒स्वी यु॒ष्मोतो॒ अर्वा॒ सहु॑रिः सह॒स्री । यु॒ष्मोत॑: स॒म्राळु॒त ह॑न्ति वृ॒त्रं प्र तद्वो॑ अस्तु धूतयो दे॒ष्णम् ॥
yuṣmóto vipró marutaḥ śata-svī yuṣmóto árvā sáhuriḥ sahasrī | yuṣmótaḥ samrā́ḷ utá hánti vṛtráṃ prá tád vo astu dhūtayo déṣṇam ||
O Maruts, by your fostering power the seer becomes rich in hundreds; by your fostering power the swift steed becomes a thousand-strong in force. By your fostering power the sovereign energy even smites Vṛtra, the obstructer. Let that be for you, O Shakers, a forward-going gift to us—an allotment of your power.
यु॒ष्माऽऊ॑तः । विप्रः॑ । म॒रु॒तः॒ । श॒त॒स्वी । यु॒ष्माऽऊ॑तः । अर्वा॑ । सहु॑रिः । स॒ह॒स्री । यु॒ष्माऽऊ॑तः । स॒म्ऽराट् । उ॒त । ह॒न्ति॒ । वृ॒त्रम् । प्र । तत् । वः॒ । अ॒स्तु॒ । धू॒त॒यः॒ । दे॒ष्णम् ॥युष्माऊतः । विप्रः । मरुतः । शतस्वी । युष्माऊतः । अर्वा । सहुरिः । सहस्री । युष्माऊतः । सम्राट् । उत । हन्ति । वृत्रम् । प्र । तत् । वः । अस्तु । धूतयः । देष्णम् ॥yuṣmāūtaḥ | vipraḥ | marutaḥ | śatasvī | yuṣmāūtaḥ | arvā | sahuriḥ | sahasrī | yuṣmāūtaḥ | sam-rāṭ | uta | hanti | vṛtram | pra | tat | vaḥ | astu | dhūtayaḥ | deṣṇam