Sukta 7.58
प्र सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त । आराच्चिद्द्वेषो वृषणो युयोत यूयं पात स्वस्तिभिः सदा नः ॥
प्र सा वा॑चि सुष्टु॒तिर्म॒घोना॑मि॒दं सू॒क्तं म॒रुतो॑ जुषन्त । आ॒राच्चि॒द्द्वेषो॑ वृषणो युयोत यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
prá sā́ vā́ci suṣṭutír maghónām idáṃ sū́ktaṃ marúto juṣanta | ārā́c cid dvéṣo vṛṣaṇo yuyota yūyáṃ pāta svastíbhiḥ sádā naḥ ||
Forward in the word goes this well-shaped praise of the givers; may the Maruts take delight in this hymn. Drive far away even the hatred, O strong ones; and you—guard us always with your widenesses of well-being.
प्र । सा । वा॒चि॒ । सु॒ऽस्तु॒तिः । म॒घोना॑म् । इ॒दम् । सु॒ऽउ॒क्तम् । म॒रुतः॑ । जु॒ष॒न्त॒ । आ॒रात् । चि॒त् । द्वेषः॑ । वृ॒ष॒णः॒ । यु॒यो॒त॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥प्र । सा । वाचि । सुस्तुतिः । मघोनाम् । इदम् । सुउक्तम् । मरुतः । जुषन्त । आरात् । चित् । द्वेषः । वृषणः । युयोत । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥pra | sā | vāci | su-stutiḥ | maghonām | idam | su-uktam | marutaḥ | juṣanta | ārāt | cit | dveṣaḥ | vṛṣaṇaḥ | yuyota | yūyam | pāta | svasti-bhiḥ | sadā | naḥ