Sukta 7.58
बृहद्वयो मघवद्भ्यो दधात जुजोषन्निन्मरुतः सुष्टुतिं नः । गतो नाध्वा वि तिराति जन्तुं प्र णः स्पार्हाभिरूतिभिस्तिरेत ॥
बृ॒हद्वयो॑ म॒घव॑द्भ्यो दधात॒ जुजो॑ष॒न्निन्म॒रुत॑: सुष्टु॒तिं न॑: । ग॒तो नाध्वा॒ वि ति॑राति ज॒न्तुं प्र ण॑: स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत ॥
bṛhád váyo maghávadbhyo dadhāta jújoṣann in marútaḥ suṣṭutíṃ naḥ | gató ná ádhvā ví tirāti jantúṃ prá naḥ spārhā́bhir ūtíbhis tireta ||
Bestow a vast strengthening to the bounteous; O Maruts, take delight in our well-made praise. As a path clears the traveller’s way, so with your desirable helps carry us across and beyond.
बृ॒हत् । वयः॑ । म॒घव॑त्ऽभ्यः । द॒धा॒त॒ । जुजो॑षन् । इत् । म॒रुतः॑ । सु॒ऽस्तु॒तिम् । नः॒ । ग॒तः । न । अध्वा॑ । वि । ति॒रा॒ति॒ । ज॒न्तुम् । प्र । नः॒ । स्पा॒र्हाभिः॑ । ऊ॒तिऽभिः॑ । ति॒रे॒त॒ ॥बृहत् । वयः । मघवत्भ्यः । दधात । जुजोषन् । इत् । मरुतः । सुस्तुतिम् । नः । गतः । न । अध्वा । वि । तिराति । जन्तुम् । प्र । नः । स्पार्हाभिः । ऊतिभिः । तिरेत ॥bṛhat | vayaḥ | maghavat-bhyaḥ | dadhāta | jujoṣan | it | marutaḥ | su-stutim | naḥ | gataḥ | na | adhvā | vi | tirāti | jantum | pra | naḥ | spārhābhiḥ | ūti-bhiḥ | tireta