Sukta 7.58
जनूश्चिद्वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवोऽयासः । प्र ये महोभिरोजसोत सन्ति विश्वो वो यामन्भयते स्वर्दृक् ॥
ज॒नूश्चि॑द्वो मरुतस्त्वे॒ष्ये॑ण॒ भीमा॑स॒स्तुवि॑मन्य॒वोऽया॑सः । प्र ये महो॑भि॒रोज॑सो॒त सन्ति॒ विश्वो॑ वो॒ याम॑न्भयते स्व॒र्दृक् ॥
janū́ś cid vo marutas tveṣyéṇa bhīmā́saḥ tuví-manyavo ’yā́saḥ | prá yé mahóbhir ójasotá sánti víśvo vo yā́man bhayate svár-dṛk ||
Even your knees, O Maruts, are formidable with your blazing energy—terrible, of vast ardour, never weary. When you go forth with greatness and strength, all who behold the light fear your march.
ज॒नूः । चि॒त् । वः॒ । म॒रु॒तः॒ । त्वे॒ष्ये॑ण । भीमा॑सः । तुवि॑ऽमन्यवः । अया॑सः । प्र । ये । महः॑ऽभिः । ओज॑सा । उ॒त । सन्ति॑ । विश्वः॑ । वः॒ । याम॑न् । भ॒य॒ते॒ । स्वः॒ऽदृक् ॥जनूः । चित् । वः । मरुतः । त्वेष्येण । भीमासः । तुविमन्यवः । अयासः । प्र । ये । महःभिः । ओजसा । उत । सन्ति । विश्वः । वः । यामन् । भयते । स्वःदृक् ॥janūḥ | cit | vaḥ | marutaḥ | tveṣyeṇa | bhīmāsaḥ | tuvi-manyavaḥ | ayāsaḥ | pra | ye | mahaḥ-bhiḥ | ojasā | uta | santi | viśvaḥ | vaḥ | yāman | bhayate | svaḥ-dṛk