Sukta 7.58
प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान् । उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निॠतेरवंशात् ॥
प्र सा॑क॒मुक्षे॑ अर्चता ग॒णाय॒ यो दैव्य॑स्य॒ धाम्न॒स्तुवि॑ष्मान् । उ॒त क्षो॑दन्ति॒ रोद॑सी महि॒त्वा नक्ष॑न्ते॒ नाकं॒ निॠ॑तेरवं॒शात् ॥
prá sākám-ukṣe arcata gaṇā́ya yó daívyasya dhā́mnas túviṣmān | utá kṣódanti ródasī mahitvā́ nákṣante nā́kaṃ níḥ-ṛteḥ avaṃśā́t ||
Sing forth together to the strong, united troop, mighty in the divine dwelling. By their greatness they impel the two worlds, and they reach the heaven, escaping the portion of dissolution.
प्र । सा॒क॒म्ऽउक्षे॑ । अ॒र्च॒त॒ । ग॒णाय॑ । यः । दैव्य॑स्य । धाम्नः॑ । तुवि॑ष्मान् । उ॒त । क्षो॒द॒न्ति॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । नक्ष॑न्ते । नाक॑म् । निःऽऋ॑तेः । अ॒वं॒शात् ॥प्र । साकम्उक्षे । अर्चत । गणाय । यः । दैव्यस्य । धाम्नः । तुविष्मान् । उत । क्षोदन्ति । रोदसी इति । महित्वा । नक्षन्ते । नाकम् । निःऋतेः । अवंशात् ॥pra | sākam-ukṣe | arcata | gaṇāya | yaḥ | daivyasya | dhāmnaḥ | tuviṣmān | uta | kṣodanti | rodasī iti | mahi-tvā | nakṣante | nākam | niḥ-ṛteḥ | avaṃśāt