Sukta 7.57
उत स्तुतासो मरुतो व्यन्तु विश्वेभिर्नामभिर्नरो हवींषि । ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि ॥
उ॒त स्तु॒तासो॑ म॒रुतो॑ व्यन्तु॒ विश्वे॑भि॒र्नाम॑भि॒र्नरो॑ ह॒वींषि॑ । ददा॑त नो अ॒मृत॑स्य प्र॒जायै॑ जिगृ॒त रा॒यः सू॒नृता॑ म॒घानि॑ ॥
utá stutā́so marúto vyantu víśvebhir nā́mabhir náro havī́ṃṣi | dádāt no amṛ́tasya prájāyai jigṛtá rā́yaḥ sūnṛ́tā maghā́ni ||
And when praised, may the Maruts spread out our offerings, O heroic ones, with all their names and powers. Give us for the begetting of immortality; seize and hold for us the riches—true utterance and generous plenitudes.
उ॒त । स्तु॒तासः॑ । म॒रुतः॑ । व्य॒न्तु॒ । विश्वे॑भिः । नाम॑ऽभिः । नरः॑ । ह॒वींषि॑ । ददा॑त । नः॒ । अ॒मृत॑स्य । प्र॒ऽजायै॑ । जि॒गृ॒त । रा॒यः । सू॒नृता॑ । म॒घानि॑ ॥उत । स्तुतासः । मरुतः । व्यन्तु । विश्वेभिः । नामभिः । नरः । हवींषि । ददात । नः । अमृतस्य । प्रजायै । जिगृत । रायः । सूनृता । मघानि ॥uta | stutāsaḥ | marutaḥ | vyantu | viśvebhiḥ | nāma-bhiḥ | naraḥ | havīṃṣi | dadāta | naḥ | amṛtasya | pra-jāyai | jigṛta | rāyaḥ | sūnṛtā | maghāni