Sukta 7.57
कृते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः । प्र णोऽवत सुमतिभिर्यजत्राः प्र वाजेभिस्तिरत पुष्यसे नः ॥
कृ॒ते चि॒दत्र॑ म॒रुतो॑ रणन्तानव॒द्यास॒: शुच॑यः पाव॒काः । प्र णो॑ऽवत सुम॒तिभि॑र्यजत्रा॒: प्र वाजे॑भिस्तिरत पु॒ष्यसे॑ नः ॥
kṛté cid átra marúto raṇantān avadyā́saḥ śúcayaḥ pāvakā́ḥ | prá no ’vata sumatíbhiḥ yajatrā́ḥ prá vājébhiḥ tirata púṣyase naḥ ||
Even when the work is accomplished, here let the Maruts still resound—blameless, pure, purifying. O adorable ones, protect us with right-mindedness; carry us beyond with plenitudes of force, so that our being may grow in fullness.
कृ॒ते । चि॒त् । अत्र॑ । म॒रुतः॑ । र॒ण॒न्त॒ । अ॒न॒व॒द्यासः॑ । शुच॑यः । पा॒व॒काः । प्र । नः॒ । अ॒व॒त॒ । सु॒म॒तिऽभिः॑ । य॒ज॒त्राः॒ । प्र । वाजे॑भिः । ति॒र॒त॒ । पु॒ष्यसे॑ । नः॒ ॥कृते । चित् । अत्र । मरुतः । रणन्त । अनवद्यासः । शुचयः । पावकाः । प्र । नः । अवत । सुमतिभिः । यजत्राः । प्र । वाजेभिः । तिरत । पुष्यसे । नः ॥kṛte | cit | atra | marutaḥ | raṇanta | anavadyāsaḥ | śucayaḥ | pāvakāḥ | pra | naḥ | avata | sumati-bhiḥ | yajatrāḥ | pra | vājebhiḥ | tirata | puṣyase | naḥ