Sukta 7.57
आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन्त्सर्वताता जिगात । ये नस्त्मना शतिनो वर्धयन्ति यूयं पात स्वस्तिभिः सदा नः ॥
आ स्तु॒तासो॑ मरुतो॒ विश्व॑ ऊ॒ती अच्छा॑ सू॒रीन्त्स॒र्वता॑ता जिगात । ये न॒स्त्मना॑ श॒तिनो॑ व॒र्धय॑न्ति यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
ā́ stutā́so maruto víśva ūtī́ ácchā sūrī́nt sarvatā́tā jigāta | yé nas tmanā́ śatíno vardháyanti yūyám pāta svastíbhiḥ sádā naḥ ||
Come, O praised Maruts, with every help, to our illumined leaders from every side. You who increase our powers of a hundredfold by your own self-force—do you guard us always with your harmonies of well-being.
आ । स्तु॒तासः॑ । म॒रु॒तः॒ । विश्वे॑ । ऊ॒ती । अच्छ॑ । सू॒रीन् । स॒र्वऽता॑ता । जि॒गा॒त॒ । ये । नः॒ । त्मना॑ । श॒तिनः॑ । व॒र्धय॑न्ति । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥आ । स्तुतासः । मरुतः । विश्वे । ऊती । अच्छ । सूरीन् । सर्वताता । जिगात । ये । नः । त्मना । शतिनः । वर्धयन्ति । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥ā | stutāsaḥ | marutaḥ | viśve | ūtī | accha | sūrīn | sarva-tātā | jigāta | ye | naḥ | tmanā | śatinaḥ | vardhayanti | yūyam | pāta | svasti-bhiḥ | sadā | naḥ